(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।
॥ श्रीः ॥
3.224. अध्यायः 224
Mahabharata - Vana Parva - Chapter Topics
मार्कण्डेयेन युधिष्ठिरंप्रत्यग्निवंशादिकीर्तनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
मार्कण्डेय उवाच। 3-224-0x(2530)(24702)
आपस्य मुदिता भार्या सा चास्य परमाप्रिया।
भूपतिं भूतकर्तारं जनयामास पावकम् ॥ 3-224-1(24703)
भूतानां साऽपि सर्वेषां यं प्राहुः पावकं पतिम्।
आत्मा भुवनकर्ता च सोऽध्वरेषु द्विजातिभिः ॥ 3-224-2(24704)
महतां चैव भूतानां सर्वेषामिह यः पतिः।
भगवान्स महातेजा नित्यं चरति पावकः ॥ 3-224-3(24705)
अग्निर्गृहपतिर्नाम नित्यं यज्ञेषु पूज्यते।
आज्यं वहतियो हव्यं सर्वलोकस् पावकः ॥ 3-224-4(24706)
अपांगर्भो महाभागः सत्वभुग्यो महाद्भुतः।
भूपतिर्भूतकर्ता च महतः पतिरुच्यते ॥ 3-224-5(24707)
मता वहन्तो हव्यानि तस्याग्नेरप्रजाऽभवन्।
अग्निष्टोमस्तु नियतः क्रतुश्रेष्ठो भवत्युत ॥ 3-224-6(24708)
[स वह्निः प्रथमो नित्यं देवैरन्विष्यते प्रभुः]।
आयान्तं नियतं दृष्ट्वाप्रविवेशार्णवं भयात् ॥ 3-224-7(24709)
देवास्तं नाधिगच्छन्ति मार्गमाणा यथातथम्।
दृष्ट्वा त्वग्निरथर्वाणं ततो वचनमब्रवीत् ॥ 3-224-8(24710)
देवानां वह हव्यं त्वमहं वीर सुदुर्बलः।
अथ त्वं गच्छ मध्वक्षं प्रियमेतत्कुरुष्व मे ॥ 3-224-9(24711)
प्रेष्य चाग्निरथर्वाणमन्यं देशं ततोऽगमत्।
मत्स्यास्तस्य समाचख्युः क्रुद्धस्तानग्निरब्रवीत्।
भक्ष्या वै विविधैर्भावैर्भविष्यथ शरीरिणाम् ॥ 3-224-10(24712)
अथर्वाणं तथा चापि हव्यवाहोऽब्रवीद्वचः ॥ 3-224-11(24713)
अनुनीयमानो हि भृशं देववाक्यान्वितेन सः।
नैच्छद्वोढुं हवि सर्वं शरीरं चापि सोऽत्यजत् ॥ 3-224-12(24714)
स तच्छरीरं संत्यज्य प्रविवेश धरां तदा।
भूमिं स्पृष्ट्वाऽसृजद्भ्रातून्पृथक्पृथगतीव हि ॥ 3-224-13(24715)
आस्यात्सुगन्धं तेजश्च अस्थिभ्यो देवदारु च।
श्लेष्मणः स्फाटिकं तस् पित्तान्मारकतं तथा ॥ 3-224-14(24716)
वातात्कृष्णायसं तस्य त्रिभिरेतैर्बहु प्रजाः।
त्वचस्तस्याभ्रपटलं स्नायुजं चापि विद्रुमम् ॥ 3-224-15(24717)
शरीरास्थिविधाश्चान्ये धातवोऽस्याभवन्नृप।
एवं कृत्वा शरीरं च परमे तपसि स्थितः ॥ 3-224-16(24718)
भृग्वङ्गिरादिभिर्भूयस्तपसोत्थापितस्तदा।
भृशं जज्वाल तेजस्वी तपसाऽऽप्याधितः शिखी ॥ 3-224-17(24719)
दृष्ट्वा ऋषीनभयाच्चापि प्रविवेश महार्णवम्।
तस्मिन्नष्टे जगद्भीतमथर्वाणमथाश्रितम्।
अर्चयामासुरेवैनमथर्वाणं सुरादयः ॥ 3-224-18(24720)
अथर्वाणं श्रिताँल्लोकानात्मन्यालोच्य पावकः।
मिषतां सर्वभूतानामुन्ममज्ज महार्णवात् ॥ 3-224-19(24721)
एवमग्निर्भगवता नष्टः पूर्वमथर्वणा।
आहूतः सर्वूतानां हव्यं वहति सर्वदा ॥ 3-224-20(24722)
एवं त्वजनयद्धिष्ण्यान्वेदोक्तान्विबुधान्बहून्।
विचरन्विविधान्देशान्भ्रममाणस्तु तत्र वै ॥ 3-224-21(24723)
सिन्धुवर्ज्याः पञ्च नद्यो देविकाऽथ सरस्वती।
गङ्गा च शतकुम्भा च सरयू गण्डसाह्वया ॥ 3-224-22(24724)
चर्मण्वती मही चैव मेध्या मेधासृतिस्तदा।
इरावती वेत्रवती नद्यतिस्रोऽथ कौशिकी ॥ 3-224-23(24725)
तमसा नर्मदा चैव नदी गोदावरी तथा।
वेण्णा प्रवेणी भीमा च मरुदा चैव भारत ॥ 3-224-24(24726)
भारती सुप्रयोगा च कावेरी मज्जुरा तथा।
तुङ्गवेणा कृष्णवेणा कपिला शोण एव च ॥ 3-224-25(24727)
एता नद्यस्तु धिष्ण्यानां मातरो याः प्रकीर्तिताः ॥ 3-224-26(24728)
अद्भुतस्य प्रिया भार्या तस्याः पुत्रो विडूरथः।
यावन्तः पावकाः प्रोक्ताः सोमास्तावन्त एव तु ॥ 3-224-27(24729)
अत्रेश्चाप्यन्वये जाता ब्रह्मणो मानसाः प्रजाः।
अग्निः पुत्रान्स्रष्टुकामस्तानेवात्मन्यधारयत् ॥ 3-224-28(24730)
तस्य तद्ब्रह्मणः कायान्निर्हरन्ति हुताशनाः।
एवमेते महात्मानः कीर्तितास्तेऽग्नयो यथा ॥ 3-224-29(24731)
अप्रमेया यथोत्पन्नाः श्रीमन्तस्तिमिरापहाः।
अद्भुतस्त तु माहात्म्यं यथा वेदेषु कीर्तितम् ॥ 3-224-30(24732)
तादृशं विद्धि सर्वेषामेको ह्येषु हुताशनः।
एक एवैष भगवान्विज्ञेयः प्रथमोऽङ्गिराः ॥ 3-224-31(24733)
बहुधा निःसृतः कायाज्ज्योतिष्टोमः क्रतुर्वथा।
इत्येष वंशः सुमहानग्नीनां कीर्तितो मया।
पावको विविधैर्मन्त्रैर्हव्यं वहति देहिनाम् ॥ 3-224-32(24734)
इति श्रीन्ममहाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि चतुर्विंसत्यधिकद्विशततमोऽध्यायः ॥ 224 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-224-8 अथर्वाणमङ्गिरसं तीव्रतपसं दृष्ट्वा ॥ 3-224-9 गच्छ मा द्वेषमिति ध. पाठः. मध्वक्षं पिङ्गाक्षमग्निम्। भावप्रधानो निर्देशः. तथाच निक्षिपाम्यहमग्नित्वं त्वमग्निः प्रथमो भवेत्युपक्रमस्योपसंहारेण सहैकवाक्यता भवति ॥ 3-224-10 प्रेष्य आदिश्य ॥ 3-224-11 तथाचापि तथैव मत्स्यैराख्यातोपि। वचस्त्वं मध्वक्षो भवेति पूर्वोक्तमेव ॥ 3-224-13 धातून् मनःशिलादीन् ॥ 3-224-15 यकृत्कृष्णायसं = त्रिभिरेव बभुः प्रजाः। नखास्तस्याभ्रपटलं शिराजालानि विद्रुमम्। इति झ. पाठः ॥ 3-224-16 रीरद्विविधाश्चान्ये=एवं त्यक्त्वा शरीरं इति झ. पाठः। अन्ये स्वर्णपारदादयः ॥ 3-224-17 तपसा सामर्थ्येन। उत्धापितः समाधेश्च्यावितः ॥ 3-224-19 अथर्वा त्वसृजल्लोकानात्मना लोक्यपावकम्। =अन्ममाथ महार्णवमिति झ. पाठः ॥ 3-224-21 एवंत्विति। अग्नेरङ्गिरास्ततो बृहस्पतिस्तः शंय्वादिक्रमेण वेदोक्तान् विष्ण्यान् नानास्थानानि अजनयत् ॥ 3-224-27 यावन्तः पावका धिष्ण्याः सन्ति तावन्तः सोमाः सोमयागाः ॥ 3-224-32 योर्चितो विविधैः इति झ. पाठः ॥
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.